वासो हृत्वा दिनकरसुतासन्निधौ वल्लवीनां
लीलास्मेरो जयति ललिताम् आस्थितः कुन्दशाखाम्।
सव्रीडभिस्तदनु वसने ताभिरभ्यर्थ्यमाने
कामी कश्चित् करकमलयोरञ्जलिं याचमानः॥
इत्यनन्य मनसा विनिर्मितां वेङ्कटेशकविना स्तुतिं पठन् ।
दिव्यवेणुरसिकं समीक्षते दैवतं किमपि यउवतप्रियम्॥
view more